|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.34. अध्यायः 034
अथ पुत्रदर्शनपर्व ॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
व्यासेन निशायां गङ्गाजलावगाहनेन समाह्नाने पुरा समरनिहतैः कुरुपाण्डवोभयपक्षीयैः सर्वैः स्वस्वाभरणायुधवाहनादिभिः सह सलिलादुद्गम्य तीरोत्तरणम्॥ 1 ॥ धृतराष्ट्रेण व्यासप्रसादलब्धदिव्यचक्षुषा दुर्योधनादीनां सर्वेषामवलोकनम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः॥ 16-34-1(98079)
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा।
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत्॥ 16-34-2(98080)
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्।
पौरजानपदश्चापि जनः सर्वो यथा वयः॥ 16-34-3(98081)
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम्।
अवतीर्याजुहावाथ सँर्वाल्लोकान्महामुनिः॥ 16-34-4(98082)
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः।
राजानश्च महाभागा नानादेशनिवासिनः।
`प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति॥' 16-34-5(98083)
ततः सुतुमुलः शब्दो जलान्ते जनमेजय।
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः॥ 16-34-6(98084)
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः॥ 16-34-7(98085)
विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः॥ 16-34-8(98086)
कर्णदुर्योधनौ चैव शकुनिश्च महारथः।
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः॥ 16-34-9(98087)
जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान्।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः॥ 16-34-10(98088)
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुज॥ 16-34-11(98089)
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः।
बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः॥ 16-34-12(98090)
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः॥ 16-34-13(98091)
यस्य् वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्।
यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते॥ 16-34-14(98092)
दिव्यांबरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः।
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः॥ 16-34-15(98093)
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः।
दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः॥ 16-34-16(98094)
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्॥ 16-34-17(98095)
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी।
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृघे हताः॥ 16-34-18(98096)
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षमम्।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः॥ 16-34-19(98097)
तदुत्सवमहोदग्रं हृष्टनारीनराकुलम्।
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा॥ 16-34-20(98098)
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा।
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः॥ ॥ 16-34-21(98099)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि चतुस्त्रिंशोऽध्यायः॥ 34 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|